Exercise 20
A) Translate and resolve the compounds into Sanskrit:
१. इन्द्रशत्र्वनार्या देवेन्द्रेण जीयन्ते ॥१॥
इन्द्रः शत्रुर्येषां ते ऽनार्या देवानामिन्द्रेण जीयन्ते । (or: इन्द्रस्य शत्रव एवानार्या...)
The lord of the gods defeats the non-Aryans, the enemies of Indra are (or: whose enemy is Indra).
२. शूरबलक्षत्रिययोधः शूरपुत्रमिच्छति ॥२॥
शूरस्य बलं यस्य स क्षत्रिय एव योधः शूरमेव पुत्रमि्च्छति ॥
The Kṣatriya warrior with the strength of a hero desires a hero-son.
३. सुदुर्गममार्गेण स्वर्गं गम्यते । सुगमस्तु नरकमार्गः ॥३॥
सुदुर्गमेण मार्गेण स्वर्गं गम्यते । सुगमस्तु नरकस्य मार्गः ॥
On a very arduous path one comes to a heaven. The path to a hell, however, is simple.
४. मृतपुत्रब्राह्मणी रोदिति ॥४॥
मृतः पुत्रो यस्याः सा ब्राह्मणी रोदिति ॥
The Brahmin woman, whose son has died, weeps.
५. वीतमोहब्राह्मणः सम्पन्नरूपामपि शूद्रां न लुभ्यति ॥५॥
वीतो मोहो यस्य स ब्राह्मणः सम्पन्नं रूपं यस्यास्तामपि शूद्रां न लुभ्यति ॥
A Brahmin free from delusion desires no Śūdra woman, even if she has a perfect body.
६. सुनीतिपुत्रः प्राप्तमतिदर्शनसाधुं गच्छति ॥६॥
शोभना नीतिर्यस्य स पुत्रः प्राप्तं मतेर्दर्शनं येन तं साधुं गच्छति ॥
The polite son goes to the sage, who has acquired the ability to read thoughts.
७. प्राप्तप्रभावक्षत्रिया दृष्टमात्राञ्छत्रून्घन्ति ॥७॥
प्राप्तः प्रभावो यैस्ते क्षत्रिया दृष्टं मात्रं येषां ताञ्छत्रून्घन्ति ॥
The Kṣatriyas who have come to power kill the enemies as soon as they see them.
८. जितशत्रुयोधाः शत्रुजितान्मुञ्चन्ति ॥८॥
जितः शत्रुर्यैस्ते योधाः शत्रुणा जितान्मुञ्चन्ति । (or: जिताः शत्रवो यैस्त्ते...)
The warriors, who had defeated the enemy, free the defeated by the enemy.
९. कृतोपनयनबालः शिवादिदेवपूजां करोति ॥९॥
कृतमुपनयनं यय्स स बालः शिव आदिर्येषां तेषां देवानां पुजां करोति ॥
The boy initiated into the Veda venerates Śiva and the other gods.
१०. बुद्धगता दुःखादिसत्यानि शृण्वन्ति ॥१०॥
बुद्धं गता दुःखमादिर्येषां तानि सत्यानि शृण्वन्ति ॥
Those who have gone to Buddha hear the truth about suffering and the other (noble) truths.
B) Translate using compounds into Sanskrit:
A Kṣatriya who does not hold the staff in his hand does not protect the people.
अदण्डहस्तः क्षत्रियो न जनान्पाति । (or: जनान्रक्षति ।)Kālidāsa and the other poets are the teachers in Sanskrit.
संस्कृतगुरवः कालिदासादिक्वयः ।A Kṣatriya earns his livelihood through weapons.
शस्त्राजीवः क्षत्रियः ।Even Śūdra women have as dharma non-violence, truth, purity, non-grumbling, non-maliciousness, and forbearance.
अहिंसासत्यशौचानसूयानृशंस्यक्षमाधर्माः शूद्रा अपि ॥

Fig.: शस्त्राजीवः क्षत्रियः
(Image source: Details)
Compound Analysis
Resolve the following compounds as Bahuvrīhi and/or Dvandva and/or Tatpuruṣa into all forms you consider possible in Sanskrit.
१. इन्द्रशत्रवः । इन्द्रस्य शत्रवः । (or: इन्द्रः शत्रुर्येषां ते ।)
२. दुष्कुलायाः । दुष्टं कुलं यस्यास्तसाः ।
३. जातिमात्रस्य । जातेर्मात्रस्य । (or: जातिरेव मात्रं यस्य तस्य ।)
४. प्राप्तोदकाः । प्राप्तमुदकं यैस्ते । (or: प्राप्तमुदकं याभिस्ताः ।)
५. सुनीतिभिः । शोभनाभिर्नीतिभिः । (or: शोभना नीतिर्येषां तैः ।)
६. मृतपुत्रः । मृतः पुत्रः । (or: मृतः पुत्रो यस्य सः ।)
७. गतपुण्येन । गतेन पुण्येन । (or: गतं पुण्यं यस्य तेन ।)
८. आर्यरूपम् । आर्यास्य रूपम् । (or: आर्यं रूपं यस्य तम् ।)
९. मुक्तासनया । मुक्तमासनं यया तया ।
१०. तद्रूपः । तद्रूपं यस्य सः । (or: तस्य रूपं यस्य सः ।)
११. कृतफलानाम् । कृतस्य फलानाम् । (or: कृतं फलं यैस्तेषाम् ।)
१२. व्याघ्रबलाः । व्याघ्रस्य बलं येषां ते ।
१३. प्राप्तकाला । प्राप्तः कालो यया सा ।
१४. शूरपुत्राम् । शूरः पुत्रो यस्यास्ताम् ।
१५. कृतभिषेखः । कृतो ऽभिषेखः । (or: कृतो ऽभिषेखो यस्य सः ।)
१६. शूरबलान् । शूरस्य बलं येषां तान् ।
१७. वीतमोहः । वीतो मोहः । (or: वीतो मोहो यस्य सः ।)
१८. दण्डहस्तस्य । दण्डस्यैव हस्तस्य । (or: हस्ते दण्डो यस्य तस्य ।)
१९. गतमात्रम् । गतं मात्रम् । (or: गतं मात्रमेव यस्य तम् ।)
२०. इन्द्रपुत्रा । इन्द्रः पुत्रो यस्याः सा । (Mother of Indra = पृथिवी)
२१. तद्गुणाः । तस्य गुणाः । (or: स गुणो येषां ते ।)
२२. उपल्ब्धसुखैः । उपल्ब्धैः सुखैः । (or: उपलब्धं सुखं यैस्तैः ।)
२३. प्राप्तप्रभावः । प्राप्तः प्रभावः । (or: प्राप्तः प्रभावो येन सः ।)
२४. तन्मात्राणि । तस्य मात्राणि । (or: तन्मात्रं येषां तानि ।)
२५. प्रभूतरूपा । प्रभूतं रूपं यस्याः सा । (of outstanding form)
२६. कृतोपनयनाः । कृतमुपनयनं येषां ते ।
२७. विगतनयनम् । विगतं नयनं यस्य तम् । (blind)
२८. बुद्धमार्गेण । बुद्धस्य मार्गेण । (or: बुद्धो मार्गो यस्य तेन ।)
२९. विजयफलान् । विजयस्य फलानि येषां तान् ।
३०. दुर्गमः । difficult to walk
३१. समयकारः । समयस्य कारः । (Appointment)
३२. सम्पन्नरूपाम् । सम्पन्नं रूपं यस्यास्ताम् ।
३३. रूपसम्पन्नाम् । रूपेण सम्पन्नाम् । (perfect in form)
३४. अपुण्यानाम् । न पुण्यं येषां तेषाम् । (meritless)
३५. मृतगृहाणि । मृतानां गृहाणि । (houses of the dead)
३६. अजनस्य । deserted
३७. तद्देवतैः । सा देवता येषां तैः ।
३८. जातपुत्राः । जाताः पुत्रा येषां ते ।
३९. दुरन्ताभिः । ending badly
४०. भूतसर्गेण । भूतानां सर्गेण ।
४१. मतिदर्शनम् । मतीनां दर्शनम् । (seeing thoughts)
४२. मुक्तहस्ता । मुक्तं हस्तं यस्याः सा । (generous)
४३. तदन्तः । तस्यान्तः । (or: सो ऽन्तो यस्य सः ।)
४४. जातिमात्रम् । जातिरेव मात्रं यस्य तम् । (by birth only)
४५. तज्जयेन । तस्य जयेन । (or: तस्य जयो यस्य तेन ।)
४६. लब्धधनानाम् । लब्धं धनं येषां तेषाम् ।
४७. सुदर्शः । good to see
४८. सकारणः । with one cause
४९. तनादयः । तन् etc. (= 8th class of verbs)
५०. जातमात्राम् । जातमेव मात्रं यस्यस्ताम् । (just arisen)
५१. दुर्जातयः । of bad birth
५२. हतपुत्रः । हतः पुत्रो यस्य सः ।
५३. दुरासितम् । bad way of sitting
५४. इष्टदेवतया । इष्टा देवता यस्यास्तया ।
५५. कृतपुण्याभिः । कृतं पुण्यं याभिस्ताभिः ।
५६. श्रुत्युदितम् । श्रुतेरुदितम् ।
५७. गतपापैः । गतं पापं येषां तैः ।
५८. जितारिणा । जितो ऽरि येन तेन ।
५९. जातकोपा । जातः कोपो यस्याः सा ।
६०. जातिधर्मः । जातीनां धर्मः ।
६१. तत्प्रभृतयः । सा प्रभृतिर्येषां ते । (etc.)
६२. सुदुर्जयः । very hard to conquer
६३. जितक्रोधेन । जितः क्रोधो यस्य तेन ।
६४. दुरुपदेशम् । difficult instruction
६५. लब्धलाभा । लब्धो लाभो यया सा ।
६६. बुद्धदासः । बुद्धस्य दासः ।
६७. मुक्तबुद्धिः । मुक्ता बुद्धिर्यस्य सः ।
६८. यज्ञकालम् । यज्ञस्य कालम् ।
६९. जितशत्रून् । जितः शत्रुर्यैस्तान् ।
७०. शत्रुजितान् । शत्रुणा जितान् ।
७१. तत्फलः । तस्य फलं यस्य सः ।
७२. सुगुणा । of good quality
७३. जातक्रोधः । जातः क्रोधो यस्य सः ।
७४. दृष्टमात्रः । as soon as he was seen
७५. भूतकालः । past
७६. सुनेत्राः । having good eyes
७७. तदादीनाम् । सादिर्येषां तेषाम् ।
७८. जातिस्मरणम् । memory of previous births
७९. सफलम् । fertile
८०. अकरुणस्य । pitiless
८१. सोढदुःखाः । सोढं दुःखं यैस्ते ।

Fig.: सम्पन्नरूपा रूपसम्पन्ना
(Image source: Details)
Scholarly Fragments
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनतश्चित्तप्रसादनम् ॥ योगसूत्र १.३३ ॥
The clarification of the mind occurs through the unfolding of friendly goodwill, compassion, sympathetic joy, and equanimity, which have happiness and suffering, merit and non-merit as their object.
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ योगसूत्र २.१ ॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ योगसूत्र २.२ ॥
Karma Yoga is asceticism, Vedic study, and attentive service to the LORD. Its goal is the unfolding of concentration and the weakening of "suffering."
The five "sufferings" (क्लेश) are: अविद्यास्मितारागद्वेषाभ्निवेशाः (Yoga-Sūtra 2.3) — ignorance, egoism, greed, hatred, and attachment to the body.
त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः ॥ सांख्यसूत्र १.१ ॥
The highest goal of man is that triple suffering disappears completely. (Triple suffering: from oneself, from objects, from the gods.)
बाधनालक्षणं दुःखम् ॥ न्यायसूत्र १.२१ ॥
तदत्यन्तविमोक्षो ऽपवर्गः ॥ न्यायसूत्र १.२२ ॥
Suffering is characterized by distress. Liberation is complete freedom from it.
न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः ।
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥
There is no heaven, no liberation, no transcendent soul, nor are there fruitful rituals and activities for castes and stages of life. ( सर्वदर्शनसंग्रह )
देवानां करदा विप्रा
विप्राणां करदा नृपाः ।
नृपाणां करदा लोका
लोकानां करदा मही ॥
Brahmins give offerings to the gods, Brahmins receive offerings from kings, kings receive offerings from the people, the earth receives offerings from the people.
भार्या पुत्रश्च दासश्च
त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति
यस्य ते तस्य तद्धनम् ॥ मनुस्मृति ८.४१६ ॥
Wife, son, and serf, these three are traditionally without property. What they acquire is the property of him to whom they belong.
तनुमध्यं पृथुश्रोणि
रक्तौष्ठमसितेक्षणम् ।
नतनाभि वपुः स्त्रीणां
कं न हन्त्युन्नतस्तनम् ॥
Slender in the middle, broad at the hips, with red lips, black eyes, with a curved navel and full breasts, which man does not slay such a beautiful female body?
सन्ति पुत्राः सुबहवो
दरिद्राणामनिच्छताम् ।
नास्ति पुत्रः समृद्धानां
विचित्रं विधिचेष्टितम् ॥
Those who do not desire have many sons, the rich have not a single son. Strange is the course of creation.

Fig.: सन्ति पुत्राः सुबहवो दरिद्राणाम्
(Image source: Details)
