🇭🇰 ZH - 中文
🇭🇰 ZH - 中文
Appearance
🇭🇰 ZH - 中文
🇭🇰 ZH - 中文
Appearance
A) 複習變格:以下詩頌包含गुरु陽性單數的所有變格形式:
गुरुरेव गतिर्गुरुमेव भजे
गुरुणैव सहास्मि नमो गुरवे ।
न गुरोः परमं शिशुरस्मि गुरोर्
मतिरस्ति गुरौ मम पाहि गुरो ॥
我的老師是我的歸依處,
我禮敬我的老師,
我和我的老師在一起,
向我的老師致敬,
沒有比老師更高的存在,
我是老師的孩子,
我的心與我的老師同在,
老師啊,請保護我!
येनास्य पितरो याता
येन याताः पितामहाः ।
तेन यायात्सतां मार्गम्
तेन गच्छन्न रिष्यते ॥ १ ॥
當行於善人之道,即諸父所行之道,諸祖所行之道。若人行此道,則不遭受損害。
कुविवाहैः क्रियालोपैर्
वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति
ब्राह्मणातिक्रमेण च ॥ २ ॥
家庭因不良婚姻、廢棄儀式、不研習吠陀以及冒犯婆羅門而淪為非家庭。
संतुष्टो भार्यया भर्ता
भर्त्रा भार्या तथैव च ।
यस्मिन्नेव कुले नित्यम्
कल्याणं तत्र वै ध्रुवम् ॥ ३ ॥
丈夫與妻子彼此常懷滿足,此類家庭必享恆久福樂。

圖:संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेव कुले नित्यम् कल्याणं तत्र वै ध्रुवम् ॥
(圖片來源:詳情)
स्वाध्याये नित्ययुक्तः स्याद्
दैवे चैवेह कर्मणि ।
दैवे कर्मणि युक्तो हि
बिभर्तीदं चराचरम् ॥ ४ ॥
अग्नौ प्रास्ताहुतिः सम्यग्
आदित्यमुपतिष्ठते ।
आदित्याज्जायते वृष्टिर्
वृष्टेरन्नं ततः प्रजाः ॥ ५ ॥
人應恆常致力於吠陀研習與諸神之儀軌。蓋因投身於諸神儀軌者,將獲致此由有情與無情所構成之世界。恰如其分地投入火中的祭品,會抵達太陽;從太陽產生雨水;由雨水生出食物;由此孕育出眾生。

圖:दैवे कर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥
(圖片來源:詳情)
हेयं दुःखमनागतम् ॥ ६ ॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ ७ ॥
應捨棄未來之苦。
此捨棄行為之根源,在於見者與所見 [= 能知與所知] 的結合。
न किंचिदवमन्येत
सर्वस्य शृणुयान्मतम् ।
बालस्याप्यर्थवद्वाक्यम्
उपयुन्जीत पाण्डितः ॥ ८ ॥
[國王]不應輕視任何事物,他應聆聽每個人的意見。一位博學者也會採納孩童的言論,如果它有意義的話。
उपनीय तु यः शिष्यं
वेदमध्यापयेद्द्द्विजः ।
सकल्पं सरहस्यं च
तमाचार्यां प्रचक्षते ॥ ९ ॥
我們稱「Ācārya」為雙生者,他給予學生Upanayana(入學禮),然後教導他吠陀、儀式和秘密教義。
एकदेशं तु वेदस्य
वेदाङ्गान्यपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम्
उपाध्यायः स उच्यते ॥ १० ॥
我們稱「Upādhyāya」為為了謀生而教導部分吠陀或輔助科學的人。
निषेकादीनि कर्माणि
यः करोति यथाविधि ।
संभावयति चान्नेन
स विप्रो गुरुरुच्यते ॥ ११ ॥
我們稱「Guru」為婆羅門,他按照規定執行Niṣeka(授精儀式)和其他儀式,並通過食物使他產生。