Skip to content

練習42

請翻譯:

प्रकृत्यैव यः कर्माणि क्रियमाणानि पश्यति स आत्मानमकर्तरं पश्यति ॥ १ ॥
誰看見行為(僅)由物質自然(प्रकृति)所執行,誰就看見自我(आत्मा)是不動的。

कृष्णस्तस्य लोकस्य पिता माता पितामहो धातास्ति ॥ २ ॥
奎師那(Kṛṣṇa)是這世界之父、之母、之祖父及創造者。

आचार्याः पितरः पुत्राश्च पितामहाः श्वशुरा नप्तरो युद्धायावस्थिताः । एतान्न हन्तुमिच्छामीत्यर्जुनो भगवद्गीतायामुवाच ॥ ३ ॥
「老師、父親、兒子、祖父、岳父及孫子們已列陣準備戰鬥。我絕不願殺害這些人!」——阿周那(Arjuna)在薄伽梵歌中如此說道。

कवयो लब्धपुत्रतायाः पितॄन्मातॄश्च तुष्टुवुः ॥ ४ ॥
詩人讚頌父親與母親,因為他們獲得了父職(或親職)。

भर्त्रा भार्या भर्तव्या । तस्माद्भार्येत्युच्यते ॥ ५ ॥
妻子應由丈夫供養。因此她被稱為「bhāryā」(被供養者)。

सत्पुत्रः पितृभ्यः पिण्डान्ददाति । पितृभिः पिण्डदानमश्यत एवं च सुखजीवो जीवितुं शक्यते ॥ ६ ॥
好兒子為其先祖供養食物祭品(पिण्ड)。透過先祖,食物的供養被享用,如此便能過上幸福的生活。

भ्रात्रा स्वसा न विवोड्धव्या । भातरि स्वसारं कामयमाने देवाः क्रुध्यन्ति ॥ ७ ॥
兄弟不得娶其姊妹為妻。若兄弟覬覦其姊妹,諸神將震怒。

क्थं भर्तुर्भ्रातोच्यते । देवेति भर्तुर्भ्राता वक्तव्यः ॥ ८ ॥
丈夫的兄弟被稱為什麼?夫之弟(devara,即小叔子)應稱為「devara」。

नप्तॄणां लाभं पितैच्छत् ॥ ९ ॥
父親希望獲得孫子。


圖:कृष्णस्तस्य लोकस्य पिता माता पितामहो धातास्ति
(圖片來源:詳情


故事:悉多的婚禮(सीताविवाहः

पुरा मिथिलायां जनको नाम राजा बभूव । तस्य सुता सीता नाम । सा रूपे शीले चानुपमा बभूव । तां परिणेतुमिछ्हन्तो ऽनेके राजकुमारा जनकाय दूतान्प्रेषयामासुः ॥ जनकस्तु तां वीर्यसम्पन्नाय क्षत्रियकुमाराय दातुमैच्छत् । अतः स तां वीर्येण क्रेतव्यामकल्पयत् । तथा हितस्य सकाशे गुरुतरं किमपि धनुरासीत् । य इदं धनुरुद्धृत्यास्मिन्शरं सन्धत्ते स मम सुतां परिणेष्यतीति जनकः प्रतिजज्ञे ॥ तां तस्य प्रतिज्ञां श्रुत्वा शतशो राजकुमाराः समाजग्मुः । परं नैको ऽपि तेषां तद्धनुश्चलयितुमपि शशाक । लङ्काधिपती रावणो ऽपि साटोपं समेत्य सलज्जं प्रतिनिवृत्त इति ज्ञायते ॥ सर्वान्राजकुमारान्प्रतिवृत्तान्विलोक्य को मे दुहितुर्भर्ता भविष्यतीति चिन्तापरो बभूव जनकः । अत्रान्तरे ऽयोध्याधिपतेर्दशरथस्य पुत्रः श्रीरामः सलक्ष्मणो विश्वा्मित्रेण तत्रानीयत । श्रीरामो महर्षेर्विश्वामित्रस्य वचनेन लीलयैव तद्धनुरुद्धृत्य यावत्तस्मिन्बाणमारोपयति तावत्तद्धनुर्द्वेधा भग्नं बभूव ॥

साधु साध्विति श्रीरामस्य वीर्यं प्रशशंसुर्जनाः ॥ जनकस्य राज्ञो हृदयं प्रहृष्टं बभूव । ततः स दशरथादीनानाय्य महता विभवेन सीतरामयोर्विवाहोत्सवं निरवर्तयन् ॥

翻譯:
從前,在米提拉有一位名叫詹卡(Janaka)的國王。他有一個女兒名叫悉多(Sītā)。她的美貌與德行無可匹敵。許多想娶她的王子們,都向詹卡派遣使者。

然而,詹卡國王希望將她許配給一位勇猛的剎帝利王子。因此他規定,必須透過英雄氣概來「贏得」她。情況是這樣的:他擁有一張極其沉重的弓。詹卡承諾道:「誰能拾起這張弓並搭上箭矢,誰就能娶我的女兒為妻。」

當王子們聽到這個承諾時,成百上千地趕來。然而沒有一人能移動這張弓哪怕一絲一毫。眾所周知,連蘭卡(Laṅkā)的統治者羅波那(Rāvaṇa)也傲慢地出現,最終羞愧而歸。當詹卡看到所有王子都返回時,他充滿擔憂,不知誰將成為他女兒的丈夫。與此同時,大仙人毗濕瓦密多羅(Viśvāmitra)帶領著阿約提亞(Ayodhyā)國王達沙拉塔(Daśaratha)的兒子羅摩(Rāma),以及拉克什曼那(Lakṣmaṇa)前往那裡。在偉大仙人毗濕瓦密多羅的指示下,傑出的羅摩輕鬆地拾起了弓。當他搭上箭矢時,弓斷成了兩截。

「好!好!」——人們讚頌傑出羅摩的英雄氣概。

詹卡國王的心充滿了極大的喜悅。隨後,他召來達沙拉塔和其他人,並以盛大的排場慶祝悉多與羅摩的婚禮。


圖:श्रीसीता श्रीरामश्च
(圖片來源:詳情

Tüpfli 全球村庄图书馆的一部分