🇭🇰 ZH - 中文
🇭🇰 ZH - 中文
Appearance
🇭🇰 ZH - 中文
🇭🇰 ZH - 中文
Appearance
यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् ।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः ॥ १५९ ॥
凡依他人意志而行之行為,應勤勉避免;然由己意所為者,則當勤勉奉行。
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ १६० ॥
凡依他人意志而行之事,皆為苦;凡依己意而行之事,皆為樂。此應總括知曉為苦與樂之特徵。
यत्कर्म कुर्वतो ऽस्य स्यात्परितोषो ऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ १६१ ॥
凡行之能致內心滿足者,當勤勉奉行;反之則應避免。

圖:सर्वं परवशं दुःखम्
(圖片來源:詳情)
वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ ६ ॥
正法之根為:
- 全部吠陀
- 通曉吠陀者之傳承與習俗
- 善行之行為
- 靈魂之滿足
एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत्, स्वप्नं लौल्यमनृतमुद्धतवेषत्वमनर्थ्यसंयोगमधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् ॥ २ ॥
एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत्, स्वप्नं लौल्यमनृतमुद्धतवेषत्वमनर्थ्यसंयोगमधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् ॥ २ ॥
धर्मार्थाविरोधेन कामं सेवेत, न निःसुखः स्यात् ॥ ३ ॥
समं वा त्रिवर्गमन्योन्यानुबद्धम् ॥ ४ ॥
एको ह्यत्यासेवितो धर्मार्थकामानामात्मानमितरौ च पीदयति ॥ ५ ॥
अर्थ एव प्रधान इति कौटिल्यः ॥ ६ ॥
अर्थमूलौ हि धर्मकामाविति ॥ ७ ॥
因此,他應控制自己的感官,遠離他人的妻子、他人的財物和暴力,並避免沉睡、貪欲、虛妄、浮華、無益之物以及不正當或無益的事務。他可在不損害正義與功利行為的前提下享受享樂;他不應過著毫無喜悅的生活。或者,他應同等地追求這三種互相聯繫的人生目標。因為若過度沉溺於正義、功利行為與享樂中的任何一者,將會損害心靈與其他兩個目標。考提利耶(Kauṭilya)說,功利行為(Artha)是最重要的。因為正義與享樂皆根源於功利行為。
佛陀的解脫覺悟:
ततो मारबलं जित्वा धैर्येण च शमेन च ।
परमार्थं विजिज्ञासुः स दद्ध्यौ ध्यानकोविदः ॥ १ ॥
當他以堅定與平靜戰勝了魔羅(Māra)的軍隊後,這位精通禪修者渴望完全證悟至高真理與實相,因而進行禪修。
他達到了所有禪修方法的最高精通境界,並在初夜分憶念其無間斷的轉世序列。
अमुत्राहमयं नाम च्युतस्तस्मादिहागतः ।
इति जन्मसहस्राणि सस्मारानुभवन्निव ॥ ३ ॥
「我曾在那裡,名叫某某;從那裡離去後,我來到了這裡。」他如此憶念著千生萬世,彷彿親身經歷一般。
स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु ।
ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः ॥ ४ ॥
當他如此憶念這些不同存在中的生與死時,他對眾生展現了慈悲;他是本性即為慈悲者。
कृत्वेह स्वजनोत्सर्गं पुनरन्यत्र च कृत्वा ।
अत्राणः खलु लोको ऽयं परिभ्रमति चक्रवत् ॥ ५ ॥
確實,此世間無處可逃,如輪般輾轉流轉:它將眾生遣送至這裡,隨後又送往那裡。
इत्येवं स्मरतस्तस्य बभूव नियतात्मनः ।
कदलीगर्भनिःसारः संसार इति निश्चयः ॥ ६ ॥
當他以堅定的心如此憶念時,他獲得了確切的洞察:輪迴的流轉如同芭蕉樹的心髓一般,空無核心。
द्वितीये त्वागते यामे सो ऽद्वितीयपराक्रमः ।
दिव्यं लेभे परं चक्षुः सर्वचक्षुष्मतां वरः ॥ ७ ॥
當第二夜分到來時,他——其力量無與倫比、一切有眼者中最勝者——獲得了最殊勝的天眼。
ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा ।
ददर्श निखिलं लोकम् आदर्श इव निर्मले ॥ ८ ॥
隨後,他以這雙完全清淨的天眼,看見整個世界如同在無瑕的鏡子中一般。
सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् ।
प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ॥ ९ ॥
當他看見眾生因善業或惡業而經歷生滅時,他的心中湧起了慈悲。
इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् ।
इमे ऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिविष्टपे ॥ १० ॥
「這些造作惡行的眾生,將墮入惡趣;而那些擁有善業的眾生,則會再生於帝釋天的天界。」

圖:कदलीगर्भनिःसारः
(圖片來源:詳情)