第42课
请翻译:
१. प्रकृत्यैव यः कर्माणि क्रियमाणानि पश्यति स आत्मानमकर्तरं पश्यति ॥ १ ॥
谁看见行为(仅)由物质自然(प्रकृति)执行,谁就看见自我(आत्मा)是不动的。
२. कृष्णस्तस्य लोकस्य पिता माता पितामहो धातास्ति ॥ २ ॥
克里希纳是这个世界之父、之母、之祖父及创造者。
३. आचार्याः पितरः पुत्राश्च पितामहाः श्वशुरा नप्तरो युद्धायावस्थिताः । एतान्न हन्तुमिच्छामीत्यर्जुनो भगवद्गीतायामुवाच ॥ ३ ॥
“老师、父亲、儿子、祖父、岳父及孙子们已列阵准备战斗。这些人我不愿杀害!”——阿尔诸那在薄伽梵歌中如此说道。
४. कवयो लब्धपुत्रतायाः पितॄन्मातॄश्च तुष्टुवुः ॥ ४ ॥
诗人赞美父亲与母亲,以成就父子(或父母)关系。
५. भर्त्रा भार्या भर्तव्या । तस्माद्भार्येत्युच्यते ॥ ५ ॥
妻子应由丈夫供养。因此她被称为“bhāryā”(被供养者)。
६. सत्पुत्रः पितृभ्यः पिण्डान्ददाति । पितृभिः पिण्डदानमश्यत एवं च सुखजीवो जीवितुं शक्यते ॥ ६ ॥
优秀的儿子为其祖先提供食物祭品(पिण्ड)。通过祖先,食物祭品被享用,从而得以过上幸福的生活。
७. भ्रात्रा स्वसा न विवोड्धव्या । भातरि स्वसारं कामयमाने देवाः क्रुध्यन्ति ॥ ७ ॥
兄弟不得娶其姐妹为妻。若兄弟觊觎其姐妹,诸神将震怒。
८. क्थं भर्तुर्भ्रातोच्यते । देवेति भर्तुर्भ्राता वक्तव्यः ॥ ८ ॥
丈夫的兄弟称为什么?妻子的兄弟应称为“devara”(姐夫/妹夫)。
९. नप्तॄणां लाभं पितैच्छत् ॥ ९ ॥
父亲希望获得孙子。

图:कृष्णस्तस्य लोकस्य पिता माता पितामहो धातास्ति
(图片来源:详情)
故事:悉多的婚礼(सीताविवाहः)
पुरा मिथिलायां जनको नाम राजा बभूव । तस्य सुता सीता नाम । सा रूपे शीले चानुपमा बभूव । तां परिणेतुमिछ्हन्तो ऽनेके राजकुमारा जनकाय दूतान्प्रेषयामासुः ॥
जनकस्तु तां वीर्यसम्पन्नाय क्षत्रियकुमाराय दातुमैच्छत् । अतः स तां वीर्येण क्रेतव्यामकल्पयत् । तथा हि — तस्य सकाशे गुरुतरं किमपि धनुरासीत् । य इदं धनुरुद्धृत्यास्मिन्शरं सन्धत्ते स मम सुतां परिणेष्यतीति जनकः प्रतिजज्ञे ॥
तां तस्य प्रतिज्ञां श्रुत्वा शतशो राजकुमाराः समाजग्मुः । परं नैको ऽपि तेषां तद्धनुश्चलयितुमपि शशाक । लङ्काधिपती रावणो ऽपि साटोपं समेत्य सलज्जं प्रतिनिवृत्त इति ज्ञायते ॥
सर्वान्राजकुमारान्प्रतिवृत्तान्विलोक्य को मे दुहितुर्भर्ता भविष्यतीति चिन्तापरो बभूव जनकः । अत्रान्तरे ऽयोध्याधिपतेर्दशरथस्य पुत्रः श्रीरामः सलक्ष्मणो विश्वा्मित्रेण तत्रानीयत । श्रीरामो महर्षेर्विश्वामित्रस्य वचनेन लीलयैव तद्धनुरुद्धृत्य यावत्तस्मिन्बाणमारोपयति तावत्तद्धनुर्द्वेधा भग्नं बभूव ॥
साधु साध्विति श्रीरामस्य वीर्यं प्रशशंसुर्जनाः ॥
जनकस्य राज्ञो हृदयं प्रहृष्टं बभूव । ततः स दशरथादीनानाय्य महता विभवेन सीतरामयोर्विवाहोत्सवं निरवर्तयन् ॥
翻译:
古时,在米提拉有一位名叫贾纳卡(Janaka)的国王。他有一个女儿名叫悉多(Sītā)。她的美貌与德行无与伦比。许多想要娶她的王子们向贾纳卡派遣了使者。
然而,贾纳卡希望将她许配给一位强有力的刹帝利(Kṣatriya)王子。因此,他规定她必须通过英雄气概“赢得”。情况是这样的:他拥有一张极其沉重的弓。贾纳卡许诺:“谁能拿起这张弓并搭上箭矢,谁就可以娶我的女儿。”
当王子们听到这个许诺时,成百上千地赶来。然而,没有一个人能移动那张弓。众所周知,就连兰迦(Laṅkā)的统治者罗波那(Rāvaṇa)也傲慢地出现,最终羞愧地返回。当贾纳卡看到所有王子都返回时,他充满了忧虑,不知谁将成为他女儿的丈夫。与此同时,大仙人毗奢密多罗(Viśvāmitra)带领阿约提亚(Ayodhyā)国王达刹罗陀(Daśaratha)的儿子罗摩(Rāma)和罗什曼那(Lakṣmaṇa)来到了那里。在大仙人毗奢密多罗的命令下,卓越的罗摩轻松地举起了那张弓。当他搭上箭矢时,弓断成了两半。
“好,好!”——人们赞美卓越罗摩的英雄气概。
国王贾纳卡的心充满了喜悦。随后,他召见达刹罗陀和其他人,并隆重地庆祝了悉多和罗摩的婚礼。

图:श्रीसीता श्रीरामश्च
(图片来源:详情)
