Exercitatio 51
१. कौटिलीयार्थशास्त्र १, ३, ९ - १२: आश्रमधर्मः
गृहस्तस्य स्वधर्माजीवस्तुल्यैरसमानार्षिभिर्वैवाह्यमृतुगाित्वं देवपित्रातिथिपूजा भृत्येषु त्यागः शेषभोजनं च ॥ ९ ॥
Oeconomicus debet:
- victum habere secundum suum proprium dharma
- matrimonium contrahere cum personis aequalibus ex alio gotra (Ṛṣi)
- ad tempus fructiferum feminae coitum habere
- deos, patres avitos et hospites colere
- erga eos qui ab eo dependent liberalis esse
et edere quod superest.
ब्रह्मचारिणः स्वाध्यायो ऽग्निकार्याभिषेकौ भैक्षाव्रतित्वमाचार्ये प्राणान्तिकी वृत्तिस्तदभावे गुरुपुत्रे सब्रह्मचारिणि वा ॥ १० ॥
Discipulus Vedicus caelebs debet:
- Veda studere
- ignem rituale colere
- aspersiones perficere
- votum servare, victum ex eleemosyna accipiens
- apud ācāryam morari et curam gerere usque ad mortem eius, vel apud filium magistri aut discipulum socium.
वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जाटाजिनधारणमग्निहोत्राभिषेकौ देवतापित्रतिथिपूजा वन्यश्चाहारः ॥ ११ ॥
Eremita silvestris debet:
- caelebs vivere
- in solo terrae iacere
- crines contexere et pellem antilopis portare
- hostias igneas offerre et aspersiones perficere
- deos, patres avitos et hospites colere
- ex productis silvestribus vivere.
प्रव्राजकस्य जितेन्द्रियत्वमनारम्भो निष्किंचनत्वं सङ्गत्यागो भैक्षाव्रतमनेकत्रारण्ये च वासो बाह्याभ्यन्तरं च शौचम् ॥ १२ ॥
Wanderansis sine patria debet:
- sensus vincere
- nihil novum incipere
- sine ulla possessione esse
- omnem adhaesionem relinquere
- votum servare, victum ex eleemosyna accipiens
- in multis locis solitudinis habitare
- interius et exterius purus esse.
२. कौटिलीयार्थशास्त्र १, ३, १६ - १७: De necessitate attentionis ad वर्णश्रमधर्म
तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।
स्वधर्मं संदधानो हि प्रेत्य चेह च नन्दति ॥ १६ ॥
व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः ।
त्रय्याभिरक्षितो लोकः प्रसीदति न सीदति ॥ १७ ॥
Proptrex rex debet res non declinare a suo proprio dharma. Qui enim suum proprium dharma implet, ille post mortem et in hac vita gaudet. Si ordo nobilium firmus est, si ordines et vitae status stabiliti sunt, tunc mundus a tribus Vedis custoditus pacifice vivit et non perit.
३. बाण (७. saec. p. Chr.): कादम्बरी
Considerationes psittaci वैशम्पायन de vita venatoria:
आसीच्च मे मनसि -- अहो मोहप्रायमेतेषां जीवितं साधुजनगर्हितं च चरितम् । तथा हि । पुरुषपिशितोपहारे धर्मबुद्धिः , अहारः साधुजनगर्हितो मधुमांसादिः , श्रमो मृगया , शास्त्रं शिवारुतम् , समुपदेष्टारः सद्सतां कौशिकाः , प्रज्ञा शकुनिज्ञानम् , परिचिताः श्वानः , राज्यं शून्यास्वटवीषु , आपानकमुत्सवः , मित्राणि क्रुरकर्मसाधनानि धनूंषि , सहाया विषदिग्धमुखा भुजंगा इव सायकाः , गीतमुत्सादकारि मुग्धमृगाणाम् , कलत्राणि बन्दीगृहीताः परयोषितः , क्रूरात्मभिः शार्दूलैः सह संवासः , पशुरुधिरेण देवतार्चनम् , मांसेन बलिकर्म , चौर्येण जीवनम् , भूषणानि भुजंगमणयः , वनकरिमदैरङ्गरागः , यस्मिन्नेव कानने निवसन्ति तदेवोत्ख्यातममूलमशेषतः कुर्वत इति चिन्तयत्येव मयि शबरसेनापतिः समुपाविशत् ॥
Et mihi in mentem venit: O, vita eorum [praedonum] praecipue ex ignorantia constat et ab bonis reprehenditur. Ita enim: hominum carnem offerre pro vera religione habent; cibus eorum est a bonis reprehensus melli vinum, caro et similia; studium eorum est praedatio; doctrina eorum est ululatus scylacum; noctuae sunt magistri boni et mali; sapientia eorum est ornithologia; familiares eorum sunt canes; regnum eorum in vacuis silvis est; festum eorum est ebrietas; amici eorum sunt arcus, quae crudelia facinora perficiunt; socii eorum sunt sagittae, quarum apex veneno est unctus ut serpentes; cantus eorum perdit confuso silvestri; uxores eorum sunt raptae puellae aliorum; cum crudelis tigris habitant; sanguine animalium deos colunt; carnem offerunt sacrificia; praeda vivunt; ornamentum eorum sunt lapides serpentis; membra eorum sudore elephanti silvestris inungunt; omnem silvam, ubi se constituant, radicitus evellunt – Dum haec cogitarem, dux Sabarorum ad me intravit.

Fig.: Praedo
(Fons imaginis: Detalia)
४. Commentarius de भानुचन्द्र (१६. saec.)
Commentarius ad praecedentem sectionem de कादम्बरी:
आसीच्चेति । मे मम मनसि चित्त आसीद्बभूव । खेद इति शेषः । तदेव दर्शयति -- अहो इत्यादिना । अहो इत्याश्चर्ये । एतेषां भिल्लानां जीवितं प्राणितं मोहो ऽज्ञानं प्रायं प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरितमाचरणं साधुजनैः सज्जनजनैर्गर्हितं निन्दितम् । तदेव विशेषतो दर्शयति -- तथा हीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्यवसानं साधुजनैर्गर्हितो निन्दितो मधुमांसादिर्मधुः मद्यं माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः । आदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासो मृगयाखेटकः । शास्त्रमिति । शिवा सृगाली तस्य रुतं शब्दितं शास्त्रमुच्चस्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पत्त्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपालत्राणि । राज्यमिति । शून्यासु जनरहितासु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् । स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेtuभूतानि धनूंष्येव चापान्येव मित्राणि सहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं मुखमाननं येषामेवंविधाः सायका बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव । भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं स्वाभाविकम् । तेषामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ye मृगा हरिणास्तेषामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितो ऽन्यस्त्रिय एव बन्दी ग्रहकस्तद्रूपत्वेन गृहीताः स्त्रीकृताः कलत्राणि स्वपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दुलैश्चित्रकैः समं संवासः सहावस्थानम् । पश्वेति । पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकरस्तत्कर्म तत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूषणनीति । भूषणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतवासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्यहस्तिनां मदैर्दानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव ... ॥
Scholastic Sanskrit
Quam primam introductionem ad Commentarii Sanscritum apte habes:
Tubb, Gary A. & Boose, Emery R.: Scholastic Sanskrit: A Handbook for Students. Novum Eboracum: American Institute of Buddhist Studies, 2007.

Fig.: Scholastic Sanskrit
(Fons imaginis: Detalia)
