Skip to content

第51课

. कौटिलीयार्थशास्त्र , , - १२: आश्रमधर्मः

गृहस्तस्य स्वधर्माजीवस्तुल्यैरसमानार्षिभिर्वैवाह्यमृतुगाित्वं देवपित्रातिथिपूजा भृत्येषु त्यागः शेषभोजनं

居家者应当:

  • 从事与其特定法(Dharma)相符的生计
  • 与来自不同祖师(Ṛṣi)世系(Gotra)的同等者缔结婚姻
  • 在妻子生育力旺盛的时期行房
  • 敬奉诸神、先祖和客人
  • 对依赖他的人慷慨施予
  • 并食用剩余的食物。

ब्रह्मचारिणः स्वाध्यायो ऽग्निकार्याभिषेकौ भैक्षाव्रतित्वमाचार्ये प्राणान्तिकी वृत्तिस्तदभावे गुरुपुत्रे सब्रह्मचारिणि वा १०

独身的吠陀学生应当:

  • 学习吠陀
  • 仪式性地照料圣火
  • 执行洒净仪式
  • 持守以乞食为生的誓言
  • 居住在导师(Ācārya)处并照顾他直至其去世,或者居住在导师的儿子或同学处。

वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जाटाजिनधारणमग्निहोत्राभिषेकौ देवतापित्रतिथिपूजा वन्यश्चाहारः ११

林居者应当:

  • 保持独身
  • 睡在土地上
  • 编辫子并披着羚羊皮
  • 执行火祭和洒净仪式
  • 敬奉诸神、先祖和客人
  • 以森林产品为食。

प्रव्राजकस्य जितेन्द्रियत्वमनारम्भो निष्किंचनत्वं सङ्गत्यागो भैक्षाव्रतमनेकत्रारण्ये वासो बाह्याभ्यन्तरं शौचम् १२

无家游方苦行者应当:

  • 制伏感官
  • 不发起任何新事物
  • 不拥有任何财产
  • 放弃一切执着
  • 持守以乞食为生的誓言
  • 在荒野中的多处地方居住
  • 保持内在和外在的纯洁。

. कौटिलीयार्थशास्त्र , , १६ - १७: 关于重视वर्णश्रमधर्म的必要性

तस्मात्स्वधर्मं भूतानां राजा व्यभिचारयेत्
स्वधर्मं संदधानो हि प्रेत्य चेह नन्दति १६

व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः
त्रय्याभिरक्षितो लोकः प्रसीदति सीदति १७

因此,国王不应使众生偏离其特定的法。因为,践行其特定法的人,死后和今生都感到喜悦。如果贤者的秩序稳固,如果种姓和人生阶段得以确立,那么由三部吠陀守护的世界就能和平生活而不致毁灭。


. बाण (. 公元后世纪): कादम्बरी

鹦鹉**वैशम्पायन**关于猎人生活的思考:

आसीच्च मे मनसि -- अहो मोहप्रायमेतेषां जीवितं साधुजनगर्हितं चरितम् तथा हि पुरुषपिशितोपहारे धर्मबुद्धिः , अहारः साधुजनगर्हितो मधुमांसादिः , श्रमो मृगया , शास्त्रं शिवारुतम् , समुपदेष्टारः सद्सतां कौशिकाः , प्रज्ञा शकुनिज्ञानम् , परिचिताः श्वानः , राज्यं शून्यास्वटवीषु , आपानकमुत्सवः , मित्राणि क्रुरकर्मसाधनानि धनूंषि , सहाया विषदिग्धमुखा भुजंगा इव सायकाः , गीतमुत्सादकारि मुग्धमृगाणाम् , कलत्राणि बन्दीगृहीताः परयोषितः , क्रूरात्मभिः शार्दूलैः सह संवासः , पशुरुधिरेण देवतार्चनम् , मांसेन बलिकर्म , चौर्येण जीवनम् , भूषणानि भुजंगमणयः , वनकरिमदैरङ्गरागः , यस्मिन्नेव कानने निवसन्ति तदेवोत्ख्यातममूलमशेषतः कुर्वत इति चिन्तयत्येव मयि शबरसेनापतिः समुपाविशत्

于是我心生觉悟:唉,这些[猎人]的生命主要建立在愚昧之上,他们的行为受到善人的谴责。正如所言:他们将献祭人肉视为正法;他们的食物是受善人谴责的蜂蜜酒、肉类等;他们的努力在于狩猎;他们的经典是豺狼的嚎叫;猫头鹰是他们的善恶导师;他们的智慧是鸟类学;他们的亲信是狗;他们的王国在空旷的森林中;他们的节日是酗酒;他们的朋友是施行残酷行为的弓;他们的同伴是箭头涂有蛇毒的箭;他们的歌声给迷乱的野兽带来毁灭;他们的女人是被掠夺的其他人的年轻女孩;他们与凶猛的老虎同住;他们用动物血液崇拜神灵;他们奉献肉类作为祭品;他们靠掠夺为生;他们的饰品是蛇形宝石;他们用森林大象发情期的汁液摩擦肢体;他们彻底连根拔起所栖息的每一片森林——当我这样思考时,Śabaras 将军走进了我的房间。


图:猎人
(图片来源:详情


भानुचन्द्र१६。世纪)的注释

कादम्बरी 前一部分的注释:

आसीच्चेति मे मम मनसि चित्त आसीद्बभूव खेद इति शेषः तदेव दर्शयति -- अहो इत्यादिना अहो इत्याश्चर्ये एतेषां भिल्लानां जीवितं प्राणितं मोहो ऽज्ञानं प्रायं प्रचुरं यत्र तादृशम् चः पुनरर्थे चरितमाचरणं साधुजनैः सज्जनजनैर्गर्हितं निन्दितम् तदेव विशेषतो दर्शयति -- तथा हीति पुरुषेति पुरुषस्य पुंसो यत्पिशितं मांसं तस्य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः आहार इति आहारः प्रत्यवसानं साधुजनैर्गर्हितो निन्दितो मधुमांसादिर्मधुः मद्यं माक्षिकं वा मांसं प्रतीतम् ते आदौ यस्येति बहुव्रीहिः आदिशब्दात्कन्दादिपरिग्रहः श्रम इति श्रमः शक्तिसाधनायासो मृगयाखेटकः शास्त्रमिति शिवा सृगाली तस्य रुतं शब्दितं शास्त्रमुच्चस्वरवेदपाठः प्रबोधजनकत्वसाम्यात्तदुपमानम् सदिति सदसतां शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः प्रज्ञेति शकुनयः पत्त्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकबुद्धिः परीति श्वानः सारमेयाः परिचिता विश्वासपालत्राणि राज्यमिति शून्यासु जनरहितासु विन्ध्याटवीषु राज्यं स्वामित्वम् आपानकेति उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् स्वार्थे कः पानगोष्ठिका मित्राणीति क्रूरं यत्कर्म तत्साधनानि तद्धेtuभूतानि धनूंष्येव चापान्येव मित्राणि सहृदः हितचिन्तकानीति यावत् सहाया इति विषेण दिग्धं मुखमाननं येषामेवंविधाः सायका बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः इव भुजंगाः सर्पा इव एतेषां विषदिग्धमुखत्वं स्वाभाविकम् तेषामौपाधिकमिति भावः गीतमिति मुग्धा अनभिज्ञा ye मृगा हरिणास्तेषामुत्साहकारि स्तब्धताविधायि गीतं गानम् कलत्रेति परयोषितो ऽन्यस्त्रिय एव बन्दी ग्रहकस्तद्रूपत्वेन गृहीताः स्त्रीकृताः कलत्राणि स्वपत्न्यः क्रूरेति क्रूरात्मभिर्दुष्टात्मभिः शार्दुलैश्चित्रकैः समं संवासः सहावस्थानम् पश्वेति पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् मांसेनेति मांसेन पिशितेन बलिर्हन्तकरस्तत्कर्म तत्कृत्यम् चौर्येणेति चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् भूषणनीति भूषणान्याभरणानि भुजंगमणयः सर्परत्नानि पर्वतवासित्वात्तेषां ते सुलभा इति भावः वनेति वनकरिणामरण्यहस्तिनां मदैर्दानवारिभिरङ्गरागो विलेपनम् यस्मिन्निति अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव ...

学术梵语

作为对注疏梵语的初步介绍,推荐使用:
Tubb, Gary A. & Boose, Emery R.:学术梵语:学生手册 纽约:美国佛教研究所,2007年。


图:学术梵语
(图片来源:详情

Tüpfli 全球村图书馆的一部分